विश्वकर्मस्तोत्रम्

विश्वकर्मस्तोत्रम् 
विश्वकर्म ध्यानम् । न भूमिर्न जलञ्चैव न तेजो न च वायवः नाकाशं च न चित्तञ्च न बुद्धीन्द्रियगोचराः न च ब्रह्मा न विष्णुश्च न रुद्रश्च तारकाः सर्वशून्या निरालम्बा स्वयम्भूता विराटसत् सदापरात्मा विश्वात्मा विश्वकर्मा सदाशिवः ॥ श्रितमध्यतमध्यस्तं ब्रह्मादिसुरसेवितम् । लोकाध्यक्षं भजेऽहं त्वां विश्वकर्माणमव्ययम् ॥ प्राकादिदिङ्मुखोत्पन्नो सनकश्च सनातनः । अभुवनस्य प्रत्नस्य सुपर्णस्य नमाम्यहम् ॥ अखिलभुवनबीजकारणम् । प्रणवतत्त्वं प्रणवमयं नमामि ॥ पञ्चवक्त्रं जटाधरं पञ्चदशविलोचनम् । सद्योजाताननं श्वेतं च वामदेवन्तु कृष्णकम् ॥ अघोरं रक्तवर्णं च तत्पुरुषं हरितप्रभम् । ईशानं पीतवर्णं च शरीरं हेमवर्णकम् ॥ दशबाहुं महाकायं कर्णकुण्डलशोभितम् । पीताम्बरं पुष्पमालं नागयज्ञोपवीतिनम् ॥ रुद्राक्षमालासंयुक्तं व्याघ्रचर्मोत्तरीयकम् । पिनाकमक्षमालाञ्च नागशूलवराम्बुजम् ॥ वीणां डमरुकं बाणं शङ्खचक्रधरं तथा । कोटिसूर्यप्रतीकाशं सर्वजीवदयापरम् ॥ विश्वेशं विश्वकर्माणं विश्वनिर्माणकारिणम् । ऋषिभिः सनकाद्यैश्च संयुक्तं प्रणमाम्यहम् ॥ इति विश्वकर्मस्तोत्रं सम्पूर्णम् ॥

Comments

Popular posts from this blog

श्रीलंका मे रावण काल ​​का विश्वकर्मा ध्वज

રામસેતુ - એક જીવંત ધરોહર

देवताओं के पुरोहित विश्वकर्मा पुत्र आचार्य विश्वरूप