विश्वकर्मनामाष्टोत्तरशतकम्

विश्वकर्मनामाष्टोत्तरशतकम् 
श्रीगणेशाय नमः । अथ श्रीविश्वकर्मनामाष्टोत्तरशतकं प्रारम्भम् । अस्य श्रीविश्वकर्मनामाष्टोत्तरशतकस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः । श्रीविश्वकर्मा देवता । अनुष्टुप्छन्दः । सर्वाभीष्टसिद्ध्यर्थं श्रीविश्वकर्मप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । पञ्चाननो दशभुजा घृतवद दीक्षः केयूरहारमणिकुण्डलचण्डतेजाः । भस्माङ्कितो मणिमयासनसंस्थितोऽसौ सर्वेश्वरो वसतु मे हृदि विश्वकर्मा ॥ ॐ विश्वकर्मा मनुस्त्वष्टा स्थाष्ठि च स्थविरो ध्रुवः । विष्णुर्वैश्वानरो योगी शिल्पाचार्यः क्रियापरः ॥ १॥ अमयी निर्भयः शान्तः सत्यव्यामः सतां प्रियः । लोकाध्यक्षः सुराध्यक्षो वरदोऽभयदो वरः ॥ २॥ मयो मन्द्रर्महातेजाः शिवयोगी हरिप्रियः । कायदः कयदः कान्तः कुलीनः कौशलप्रदः ॥ ३॥ दाता सत्यः स्वराड्विभुः गृहस्थाश्रमिणो मतिः ॥ वनवासी महामायो रूपाध्यक्षो ह्यचिन्तितः ॥ ४॥ स्वापनः शाघ्र सोचिन्त्यः कौशलः कर्मठो नरः ॥ जटी मुण्डी शिखी देवः संवृत्ताङ्गः पिशाचराट् ॥ ५॥ शास्त्रविधिर्विधिकरो लोकेशः पावनः परः ॥ हरो बुद्धिप्रदोऽनन्तः सत्यसङ्कल्प ईश्वरः ॥ ६॥ सत्यकामः सत्यरुचिः सत्यार्थः शम्भवः शिवः ॥ नादप्रियो बोधकर्ता करुणाश्रीरायुधप्रियः ॥ ७॥ घना खड्गी ध्वजी वर्मी शूली चक्री कपालभृत् । अजरो प्रणवो व्यक्तोऽव्यक्तः कृष्णो यजुर्डविः ॥ ८॥ यज्ञ इज्यो महान्स्पष्टः सोयी सम्राड् भवोऽभवः ॥ नाथः शिल्पी कविः शूरो मुनिर्मौनी दिगम्बरः ॥ ९॥ सर्वायुधिः सर्वसहः सर्वकृत् शङ्करप्रभुः ॥ इत्यष्टशतसङ्ख्याभिर्नामभिः संस्तुतो मयः ॥ १०॥ इत्यष्टशतनामेदं यः पठेन्नित्यशो नरः । सोऽर्थी यशः समाप्नोति श्रेयः सकलसम्पदः ॥ ११॥ इति विश्वकर्मनामाष्टोत्तरशतकं सम्पूर्णम् ।

Comments

Popular posts from this blog

श्रीलंका मे रावण काल ​​का विश्वकर्मा ध्वज

રામસેતુ - એક જીવંત ધરોહર

देवताओं के पुरोहित विश्वकर्मा पुत्र आचार्य विश्वरूप